प्रकरण ६: कर्मपदार्थः – बळ आणि त्यामुळे होणाऱ्या हालचाली (Application of Force on substances and resulting movements)

(Translation Under Progress)

९.०: २९०.१अथकर्मपदार्थनिरूपणम् ।

९.१: २९०.२उत्क्षेपणादीनाम्पञ्चानामपिकर्मत्वसम्बन्धः । एकद्रव्यवत्त्वम्क्षणिकत्वम्मूर्तद्रव्यवृत्तित्वमगुणवत्त्वम्गुरुत्वद्रवत्वप्रयत्नसम्योगजत्वम्स्वकार्यसम्योगविरोधित्वम्सम्योगविभागनिरपेक्षकारणत्वमसमवायिकारणत्वम्स्वपराश्रयसमवेतकार्यारम्भकत्वम्समानजातीयानारम्भकत्वम्द्रव्यानारम्भकत्वम्चप्रतिनियतजातियोगित्वम्। दिग्विशिष्टकार्यारम्भकत्वम्चविशेषः ॥

९.२.१: २९१.१०तत्रोत्क्षेपणम्शरीरावयवेषुतत्सम्बद्धेषुचयदूर्ध्वभागिभिःप्रदेशैःसम्योगकारणमधोभाग्भिश्चप्रदेशैःविभागकारणम्कर्मोत्पद्यतेगुरुत्वप्रयत्नसम्योगेभ्यस्तदुत्क्षेपणम् ॥

९.२.१: २९१.१७तद्विपरीतसम्योगविभागकारणम्कर्मापक्षेपणम् ॥

९.२.२: २९१.२१ऋजुनोद्रव्यस्याग्रावय्वानाम्तद्देशैर्विभागःसम्योगश्चमूलप्रदेशैर्येनकर्मणावयवीकुटिलःसंजायतेतदाकुञ्चनम् ॥

९.२.२: २९२.३तद्विप्रययेणसम्योगविभागोत्पत्तौयेनकर्मणावयवीऋजुःसम्पद्यतेतत्प्रसारणम् ॥

९.२.३: २९२.६यदनियतदिक्प्रदेशसम्योगविभागकारणम्तद्गमनमिति ॥

९.३: २९२.८एतत्पञ्चविधमपिकर्मशरीरावयवेषुतत्सम्बद्धेषुचसत्प्रत्ययमसत्प्रत्ययम्चयदन्यत्तदप्रत्ययमेवतेष्वन्येषुचतद्गमनमिति । कर्मणाम्जातिपञ्चकत्वमयुक्तंगमनाविशेषात्। सर्वम्हिक्षणिकम्कर्मगमनमात्रमुत्पन्नम्स्वाश्रयस्योर्ध्वमधिस्तिर्यग्वाप्यणुमात्रैःप्रदेशैःसम्योगविभागात्न्करोतिसर्वत्रगमनप्रत्ययोऽवुसिष्टस्तस्माद्गमनमेवसर्वमिति । नवर्गशःप्रत्ययानुवृत्तिव्यावृत्तिदर्शनातिहोत्क्षेपणम्परत्रापक्षेपणमित्येवमादिसर्वत्रवर्गशःप्रत्ययानुवृत्तिव्यावृत्तीदृष्टेतद्धेतुःसामान्यविशेषभेदोऽवगम्यते। तेषामुदाद्युपसर्गविशेषात्प्रतिनियतदिग्विशिष्टकार्यारम्भत्वादुपलक्षणभेदोऽपिसिद्धः । एवमपिपञ्चैवेत्यवधारणानुपपत्तिः । निष्क्रामणप्रवेशनादिष्वपिवर्गशःप्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् । यद्युत्क्षेपणादिषुसर्वत्रवर्गशःप्रत्ययानुवृत्तिव्यावृत्तिदर्शनाज्जातिभेदैष्यतेएवम्चनिष्क्रमणप्रवेशनादिष्वपि। कार्यभेदात्तेषुप्रत्ययानुवृत्तिव्यावृत्तीइतिचेत्नौत्क्षेपणादिष्वपिकार्यभेदादेवप्रत्ययानुवृत्तिव्यावृत्तिप्रसङ्गः। अथसमानेवर्गशःप्रत्ययानुवृत्तिव्यावृत्तिसद्भावेउत्क्षेपणादीनामेवजातिभेदोननिष्क्रमणादीनामित्यत्रविशेषहेतुरस्तीतिनजातिसङ्करप्रसङ्गात्। निष्क्रमणादीनाम्जातिभेदात्प्रत्ययानुवृत्तिव्यावृत्तौजातिसङ्करःप्रसज्यते। कथम्द्वयोर्द्रष्ट्रोरेकस्मादपवरकादपवरकान्तरम्गच्छतोयुगपन्निष्क्रमणप्रवेशनप्रत्ययौदृष्टौतथाद्वारप्रदेशेप्रविशतिनिष्क्रामतीतिच । यदातुप्रतिसीराद्यपनीतम्भवतितदानप्रवेशनप्रत्ययोनापिनिष्क्रमणप्रत्ययःकिन्तुगमनप्रत्ययएवभवति । तथानालिकायाम्वंशपत्त्रादौपततिबहूनाम्द्रष्टॄणाम्युगपद्भ्रमणपतनप्रवेशनप्रत्ययादृष्टाइतिजातिसङ्करप्रसङ्गः । नचैवमुत्क्षेपणादिषुप्रत्ययसङ्करोदृष्टःतस्मादुत्क्षेपणादीनामेवजातिभेदात्प्रत्ययानुवृत्तिव्यावृत्तीनिष्क्रमणादीनाम्तुकार्यभेदादिति । कथम्युगपत्प्रययभेदैतिचेत्। अथमतम्यथाजातिसङ्करोनासितेवमनेककर्मसमावेशोऽपिनास्तीत्येकस्मिन्कर्मणियुगपद्द्रष्टॄणाम्भ्रमणपतनप्रवेशनप्रत्ययाःकथम्भवन्तीति। अत्रब्रूमःनअवयवावयविनोर्दिग्विशिष्टसम्योगविभागानाम्भेदात् ।

९.३: २९४.१योहिद्रष्टाअवयवानाम्पार्श्वतःपर्यायेणदिक्प्रदेशैःसम्योगविभागान्पश्यतितस्यभ्रमणप्रत्ययोभव्तियोह्यवयविनिऊर्ध्वप्रदेशैर्विभागमधःसम्योगम्चावेक्षतेतस्यपतनप्रत्ययोभवति। यःपुनर्नालिकान्तर्देशेसम्योगम्बहिर्देशेचविभागम्पश्यतितस्यप्रवेशनप्रत्ययोभवतीतिसिद्धःकार्यभेदान्निष्क्रमणादीनाम्प्रत्ययभेदैति । भवतूत्क्षेपणादीनाम्जातिभेदात्प्रत्ययभेदःनिष्क्रमणादीनाम्तुकार्यभेदादिति ॥

९.३: २९६.१अथगमनत्वम्किम्कर्मत्वपर्यायःाहोस्विदपरम्सामान्यमिति । कुतस्तेसंशयः। समस्तेषूत्क्षेपणादिषुकर्मप्रत्ययवद्गमनप्रत्ययाविशेषात्कर्मत्वपर्यायैतिगम्यते। यतस्तूत्क्षेपणादिवद्विशेषसंज्ञयाभिहितम्तस्मादपरम्सामान्यम्स्यादिति । न। कर्मत्वपर्यायत्वात्। आत्मत्वपुरुषत्ववत्कर्मत्वपर्यायएवगमनत्वमिति। अथविशेषसंज्ञयाकिमर्थम्गमनग्रहणम्कृतमितिनभ्रमणाद्यवरोधार्थत्वात्। उत्क्षेपणादिशब्दैरनवरुद्धानाम्भ्रमणपतनस्पन्दनादीनामवरोधार्थम्गमनग्रहणम्कृतमिति। अन्यथाहियान्येवचत्वारिविशेषसंज्ञयोक्तानितान्येवसामान्यविशेषसंज्ञाविषयाणिप्रसज्येरन्निति। अथवाअस्त्वपरम्सामान्यम्गमनत्वमनियतदिग्देशसम्योगविभागकारणेषुभ्रमणादिष्वेववर्ततेगमनशब्दश्चोत्क्षेपणादिषुभाक्तोद्रष्टव्यःस्वाश्रयसम्योगविभागकर्तृत्वसामान्यादिति ॥

९.४: २९७.१९सत्प्रत्ययकर्मविधिः । कथम्चिकीर्षितेषुयज्ञाध्ययनदानकृष्यादिषुयदाहस्तमुत्क्षेप्तुमिच्छत्यपक्षेप्तुम्वातदाहस्तवत्यात्मप्रदेशेप्रयत्नःसंजायतेतम्प्रयत्नम्गुरुत्वाचोपेक्षमाणादात्महस्तसम्योगाद्धस्तेकर्मभवतिहस्तवत्सर्वशरीरावयवेषुपादादिषुशरीरेचेति। तत्सम्बद्धेष्वपिकथम्यदाहस्तेनमुसलम्गृहीत्वेच्छाम्करोतिउत्क्षिपामिहस्तेनमुसलमितितदनन्तरम्प्रयत्नस्तमपेक्षमणादात्महस्तसम्योगाद्यस्मिन्नेवकालेहस्तेउत्क्षेपणकर्मोत्पद्यतेतस्मिन्नेवकालेतमेवप्रयत्नमपेक्षमाणाद्धस्तमुसलसम्योगात्मुसलएऽपिकर्मेति ।

९.४: २९८.४ततोदूरमुत्क्षिप्तेमुसलेतदर्थेच्छानिवर्ततेपुनरप्यपक्षेपणेच्छोत्पद्यतेतदनतरम्प्रयत्नस्तमपेक्षमाणाद्यथोक्तात्सम्योगाद्धस्तमुसलयोर्युगपदपक्षेपणकर्मणीभवतःततोऽन्त्येनमुसलकर्मणोलूखलमुसलयोरभिघाताख्यःसम्योगःक्रियतेससम्योगोमुसलगतवेगमपेक्षमाणोऽप्रत्ययम्मुसलेउत्पतनकर्मकरोति । तत्कर्माभिघातापेक्षम्मुसलेसंस्कारमारभतेतमपेक्ष्यमुसलहस्तसम्योगोऽप्रययम्हतेऽप्युत्पतनकर्मकरोति। यद्यपिप्राक्तनःसंस्कारोविनष्टःतथापिमुसलोलूखलयोःसम्योगःपटुकर्मोत्पादकःसम्योगविशेषभावात्तस्यसंस्कारारम्भेसाचिव्यसमर्थोभवति । अथवाप्राक्तनएवपटुःसंस्कारोऽभिघातादविनश्यन्नवस्थितैति । अतःसंस्कारवतिपुनःसंस्कारारम्भोनास्त्यतोयस्मिन्कालेसंस्कारापेक्षादभिघातादप्रययम्मुसलेउत्पतनकर्मतस्मिन्नेवकालेतमेवसंस्कारमपेक्षमाणात्मुसलहस्तसम्योगादप्रत्ययम्हस्तेऽप्युत्पतनकर्मेति ॥

९.४: ३००.१२पणिमुक्तेषुगमनविधिः। कथम्यदातोमरम्हस्तेनगृहीत्वोत्क्षेप्तुमिच्छोत्पद्यतेतदनन्तरम्प्रयत्नःतमपेक्षमाणाद्यथोक्तात्सम्योगद्वयात्तोमरहस्तयोर्युगपदाकर्षणकर्मणीभवतः । प्रसारितेचहस्तेतदाकर्षणार्थःप्रयत्नोनिवर्ततेतदनन्तरम्तिर्यगूर्ध्वदूरमासन्नम्वाक्षिपामीतीच्छासंजायतेतदनन्तरम्तद्नुरूपःप्रयत्नस्तमपेक्षमाणस्तोमरहस्तसम्योगोनोदनाख्यःतस्मात्तोमरेकर्ंतोपन्नम्नोदनापेक्षम्तस्मिन्संस्कारमारभतेततःसंस्कारनोदनाभ्याम्तावत्कर्माणिभवन्तियावद्धस्ततोमरविभागैतिततोविभागान्नोदनेनिवृत्तेसंस्कारादूर्ध्वम्तिर्यग्दूरमासन्नम्वाप्रयत्नानुरूपाणिकर्माणिभवन्त्यापतनादिति ॥

९.४: ३०१.१३तथायन्त्रमुक्तेषुगमन्विधिः । कथम्योबलवान्कृतव्यायामोवामेनकरेणधनुर्विष्टभ्यदक्षिणेनशरम्सन्धायसशराम्ज्याम्मुष्टिनागृहीत्वाआकर्षणेच्छाम्करोतिसज्येष्वाकर्षयाम्येतद्धनुरिति । तदनन्तरम्प्रयत्नस्तमपेक्षमाणादात्महस्तसम्योगादाकर्षणकर्महस्तेयदैवोत्पद्यतेतदैवतमेवप्रयत्नमपेक्षमाणाद्धस्तज्याशरसम्योगाद्ज्यायाम्शरेचकर्मप्रयत्नविशिष्टहस्तज्याशरसम्योगमपेक्षमाणाभ्याम्ज्याकोटिसम्योगाभ्याम्कर्मणीभवतोधनुष्कोट्योरित्येतत्सर्वम्युगपत् । एवमाकर्णादाकृष्टेधनुषिनातःपरमनेनगन्तव्यमितियज्ज्ञानम्ततस्तदाकर्शणार्थस्यप्रयत्नस्यविनाशस्ततःपुनर्मोक्षणेच्छासंजायतेतदनन्तरम्प्रयत्नस्तमपेक्षमाणादात्माङ्गुलिसम्योगादङ्गुलिकर्मतस्माज्ज्याङ्गुलिविभागःततोविभागात्सम्योगविनाशःतस्मिन्विनष्टेप्रतिबन्धकाभावाद्यदाधणुषिवर्तमानःस्थितिस्थापकःसंस्कारोमण्डलीभूतम्धनुर्यथावस्थितम्स्थापयतितदातमेवसंस्कारमपेक्षमाणाद्धनुर्ज्यासम्योगाज्ज्यायाम्शरेचकर्मोत्पद्यतेतत्स्वकारणापेक्षम्ज्यायाम्संस्कारम्करोतितमपेक्षमाणैषुज्यासम्योगोनोदनम्तस्मादिषावाद्यम्कर्मनोदनापेक्षमिषौसंस्कारमारभते ।

९.४: ३०२.८तस्मात्संस्कारान्नोदनसहायात्तावत्कर्माणिभवन्तियावदिषुज्याविभागोविभागान्निवृत्तेनोदनेकर्माण्युत्तरोत्तरानीषुसंस्कारादेवापतनादिति। बहूनिकर्माणिक्रमशःकस्मात्सम्योगबहुत्वातेकस्तुसंस्कारोऽन्तरालेकर्मणोऽपेक्षाकारणाभावादिति ॥

९.४: ३०३.२०एवमात्माधिष्ठितेषुसत्प्रत्ययमसत्प्रययम्चकर्मोक्तम् ।

९.५: ३०३.२१अनधिष्ठितेषुबाह्येषुचतुर्षुमहाभूतेष्वप्रत्ययम्कर्मगमनमेवनोदनादिभ्योभवति । तत्रनोदनम्गुरुत्वद्रवत्ववेगप्रयत्नान्समस्तव्यस्तानपेक्षमाणोयःसम्योगविशेषोनोदनमविभागहेतोरेकस्यकर्मणःकारणम्तस्माच्चतुर्ष्वपिमहाभूतेषुकर्मभवति ॥

९.५: ३०४.७यथापङ्काख्यायाम्पृथिव्याम्। वेगापेक्षोयःसम्योगविशेषाविभागहेतोरेकस्यकर्मणःकारणम्सोऽभिघातः। तस्मादपिचतुर्षुमहाभूतेषुकर्मभवतियथापाषाणादिषुनिष्ठुरेवस्तुन्यभिपतितेषुतथापादादिभिर्नुद्यमानायामभिहन्यमानायाम्वापङ्काख्यायाम्पृथिव्याम्यःसम्योगोनोदनाभिघातयोरन्यतरापेक्षौभयापेक्षोवाससम्युक्तसम्योगःतस्मादपिपृथिव्यादिषुकर्मभवति। येचप्रदेशाननुद्यन्तेनाप्यभिहन्यन्तेतेष्वपिकर्मजायते। पृथिव्युदकयोर्गुरुत्वविधारकसम्योगप्रयत्नवेगाभावेसतिगुरुत्वाद्यदधोगमनम्तत्पतनम् । यथामुसलशरीरादिषूक्तम् । तत्राद्यम्गुरुत्वाद्द्वितीयादीनितुगुरुत्वसंस्काराभ्याम् ॥

९.५: ३०५.२०स्रोतोभूतानामपाम्स्थलान्निम्नाभिसर्पणम्यत्तद्द्रवत्वात्स्यन्दनम्। कथम्समन्ताद्रोधह्सम्योगेनावयविद्रवत्वम्प्रतिबद्धमवयवद्रवत्वमप्येकार्थसमवेतम्तेनैवप्रतिबद्धमुत्तरोत्तरावयवद्रवत्वानिसम्युक्तसम्योगैःप्रतिबद्धानि । यदातुमात्रयासेतुभेदःकृतोभवतितदासमन्तात्प्रतिबद्धत्वादवयविद्रवत्वस्यकार्यारम्भोनास्तिसेतुसमीपस्थस्यावयवद्रवत्वस्योत्तरोत्तरेषामवयवद्रवत्वानाम्प्रतिबन्धकाभावाद्वृत्तिलाभः । ततःक्रमशःसम्युक्तानामेवाभिसर्पणम्ततःपूर्वद्रव्यविनाशेसतिप्रबन्धेनावस्थितैरवयविर्दीर्घम्द्रव्यमारभ्यतेतत्रचकारणगुणपूर्वक्रमेणद्रवत्वमुत्पद्यतेतत्रचकारणानाम्सम्युक्तानाम्प्रबन्धेनगमनेयदवयविनिकर्मोत्पद्यतेतत्स्यन्दनाख्यमिति ॥

९.५: ३०७.१०संस्कारात्कर्मैष्वादिषूक्तम्। तथाचक्रादिष्ववयवानाम्पार्श्वतःप्रतिनियतदिग्देशसम्योगविभागोत्पत्तौयदवयविनःसंस्कारादनियतदिग्देशसम्योगविभागनिमित्तम्कर्मतद्भ्रमणमिति। एवमादयोगमनविशेषाः ॥

९.५: ३०८.१प्राणाख्येतुवायौकर्मआत्मवायुसम्योगादिच्छाद्वेषपूर्वकप्रयत्नापेक्षाज्जाग्रतैच्छानुविधानदर्शनात्सुप्तस्यतुजीवनपूर्वकप्रयत्नापेक्षात् । आकाशकालदिगात्मनाम्सत्यपिद्रव्यभावेनिष्क्रियत्वम्सामान्यादिवदमूर्तत्वात्। मूर्तिरसर्वगतद्रव्यपरिमाणम्तदनुविधायिनीचक्रियासाचाकाशादिषुनास्तितस्मान्नतेषाम्क्रियासम्बन्धोऽस्तीति ॥

९.५: ३०८.१८सविग्रहेमनसीन्द्रियान्तरसम्बन्धार्थम्जाग्रतःकर्मआत्ममनह्सम्योगादिच्छाद्वेषपूर्वकप्रयत्नापेक्षातन्वभिप्रायमिन्द्रियान्तरेणविषयान्तरोपलब्धिदर्शनात्। सुप्तस्यप्रबोधकालेजीवनपूर्वकप्रयत्नापेक्षात्। अपसर्पणकर्मोत्पसर्पणकर्मचात्ममनह्सम्योगाददृष्टापेक्षात्। कथम्यदाजीवनसहकारिनोर्धर्माधर्मयोरुपभोगात्प्रक्षयोऽन्योन्याभिभवोवातदाजीवनसहाययोर्वैकल्यात्तत्पूर्वकप्रयत्नवैकल्यात्प्राणनिरोधेसत्यन्याभ्याम्लब्धवृत्तिभ्याम्धर्माधर्माभ्यामात्ममनह्सम्योगसहायाभ्याम्मृतशरीराद्विभागकारणमपसर्पणकर्मोत्पद्यते ।

९.५: ३०९.४ततःशरीराद्वहिरपगतम्ताभ्यामेवधर्माधर्माभ्याम्समुत्पनेनातिवाहिकशरीरेणसम्बन्ध्यतेतत्सङ्क्रान्तम्चस्वर्गम्नरकम्वागत्वाआशयानुरूपेणशरीरेणसम्बध्यतेतत्सम्योगार्थम्कर्मोपसर्पणमिति । योगिनाम्चबहिरुद्रेचितस्यमनसोऽभिप्रेतदेशगमनम्प्रत्यागमनम्च। तथासर्गकालेप्रत्यग्रेणशरीरेणसम्बन्धार्थम्कर्मादृष्टकारितम् । एवमन्यदपिमहाभूतेषुयत्प्रत्यक्षानुमानाभ्यामनुपलभ्यमानकारणमुपकारापकारसमर्थम्चभवतितदप्यदृष्टकारितम्। यथासर्गादावणुकर्मअग्निवाय्वोरूर्ध्वतिर्यग्गमनेमहाभूतानाम्प्रक्षेभणम् । अभिषिक्तानाम्मणीनाम्तस्करम्प्रतिगमनम्। अयसोऽयस्कान्ताभिसर्पणम्चेति ॥

९.०: ३०९इतिप्रशस्तपादभाष्येकर्मपदार्थःसमापतः ॥

>>>अनुक्रमणिका ( Back to Table of Content): पदार्थधर्मसंग्रह : प्रशस्तपाद ऋषी

Advertisements

You may also like...

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

error: Content is protected !!
%d bloggers like this: