प्रकरण ७: सामान्यपदार्थः – द्रव्यांचे वर्गीकरण (Classification of Material and Non-material Substances)

(Translation Under Progress)

१०.०: ३११.१३अथसामान्यपदार्थनिरूपणम् ।

१०: ३११.१४सामान्यम्द्विविधम्परमपरम्च। स्वविषयसर्वगतमभिन्नात्मकमनेकवृत्तिएकद्विबहुष्वात्मस्वरूपानुगमप्रत्ययकारिस्वरूपाभेदेनाधारेषुप्रबन्धेनवर्तमानमनुवृत्तिप्रत्ययकारणम्। कथम्प्रतिपिण्डम्सामान्यापेक्षम्प्रबन्धेनज्ञानोत्पत्तावभ्यासप्रत्ययजनिताच्चसंस्कारादतीतज्ञानप्रबन्धप्रत्यवेक्षणाद्यदनुगतमस्तितत्सामान्यमिति।

Community is of two kinds higher and lower.
It pervades over all its objectives; has identically the same form (in all cases) inhering in many individuals; it brings about the idea of its own form in one, two or many things; and it is the cause or basis of the notion of inclusion, inhering as it does in all its substrates simultaneously.
Question: How so?
Answer: It is so because as- a matter of fact we find that when we cognise each individual objects as belong simultaneously to a particular class, and we have such cognitions repeatedly, then there is produced in our minds an impression and when in view of this impression we review those past cognitions, we come to recognise a certain factor that inheres in every one of the objects cognised; and it is this factor that constitutes the Community.

तत्रसत्तासान्यम्परमनुवृत्तिप्रत्ययकारणमेव । यथापरस्परविशिष्टेषुचर्मवस्त्रकम्बलादिष्वेकस्मानिलद्रव्याभिसम्बन्धात्नीलम्निलमितिप्रत्ययानुवृत्तिःतथापरस्परविशिष्टेषुद्रव्यगुणकर्मस्वविशिष्टासत्सदितिप्रत्ययानुवृत्तिःसाचार्थान्तराद्भवितुमर्हतीतियत्तदर्थानतर्म्सासत्तेतिसिद्धा ।

१०: ३१२.३सत्तानुसम्बन्धात्सत्सदितिप्रत्ययानुवृत्तिःतस्मात्सासामान्यमेव। अपरम्द्रव्यत्वगुणत्वकर्मत्वादिअनुवृत्तिव्यावृत्तिहेतुत्वात्सामान्यम्विशेषश्चभवति। तत्रद्रव्यत्वम्परस्परविशिष्टेषुपृथिव्यादिष्वनुवृत्तिहेतुत्वात्सामान्यम्गुणकर्मभ्योव्यावृत्तिहेतुत्वात्विशेषः। तथागुणत्वम्परस्परविशिष्टेषुरूपादिष्वनुवृत्तिहेतुत्वात्सामान्यम्द्रव्यकर्मभ्योव्यावृत्तिहेतुत्वात्विशेषः। तथाकर्मत्वम्परस्परविशिष्तेषूत्क्षेपणादिष्वनुवृत्तिप्रत्ययहेतुत्वात्सामान्यम्द्रव्यगुणेभ्योव्यावृत्तिहेतुत्वाद्विशेषःेवम्पृथिवीत्वरूपत्वोत्क्षेपणत्वगोत्वघटत्वपटत्वादीनामपिप्राण्यप्राणिगतानामनुवृत्तिव्यावृत्तिहेतुत्वात्सामान्यविशेषभावःसिद्धः। एतानितुद्रव्यत्वादीनिप्रभूतविषयत्वात्प्राधान्येनसामान्यानिस्वाश्रयविशेषकत्वाद्भक्त्याविशेषाख्यानीति ॥

१०: ३१४.१५लक्षणभेदादेषाम्द्रव्यगुणकर्मभ्यःपदार्थान्तरत्वम्सिद्धम्। अतएवचनित्यत्वम् । द्रव्यादिषुवृत्तिनियमात्प्रत्ययभेदाच्चपरस्परतश्चान्यत्वम् । प्रत्येकम्स्वाश्रयेषुलक्षणाविशेषाद्विशेषलक्षणाभावाच्चैकत्वम्। यद्यप्यपरिच्छिन्नदेशानिसामान्यानिभवन्तितथाप्युपलक्षणनियमात्कारणसामग्रीनियमाच्चस्वविषयसर्वगतानि । अन्तरालेचसम्योगसमवायवृत्त्यभावादव्यपदेश्यानीति ॥

१०.०: ३१४.२३इतिप्रशस्तपादभाष्येसामान्यपदार्थःसमाप्तः ॥

>>>अनुक्रमणिका ( Back to Table of Content): पदार्थधर्मसंग्रह : प्रशस्तपाद ऋषी