प्रकरण ९: समवायपदार्थः – द्रव्यांचे अन्योन्य संबंध (Inseparable relationships between Substances and their qualities)

(Translation Under Progress)

१२.०: ३२४.१८अथसमवायपदार्थनिरूपणम् ।

१२: ३२४.१९अयुतसिद्धानामाधार्याधारभूतानाम्यःसम्बन्धैहप्रत्ययहेतुःससमवायः। द्रव्यगुणकर्मसामान्यविशेषाणाम्कार्यकारणभूतानामकार्यकारणभूतानाम्वायुतसिद्धानामाधार्याधारभावेनावस्थितानामिहेदमितिबुद्धिर्यतोभवतियतश्चासर्वगतानामधिगतान्यत्वानामविष्वग्भावःससमवायाख्यःसम्बन्धः । कथम्यथेहकुण्डेदधीतिप्रत्ययःसम्बन्धेसतिदृष्टस्तथेहतन्तुषुपटःिहवीरणेषुकटःिहद्रव्येगुणकंरणीइहद्रव्यगुणकर्मसुसत्ताइहद्रव्येद्रव्यत्वमिहगुणेगुणत्वमिहकर्मणिकर्मत्वमिहनित्यद्रव्येऽन्त्याविशेषाइतिप्रत्ययदर्शनादस्त्येषाम्सम्बन्धैतिज्ञायते ॥

१२: ३२६.१नचासौसम्योगःसम्बन्धिनामयुतसिद्धत्वातन्यतरकर्मादिनिमित्तासम्भवात्विभागान्तत्वादर्शनादधिकरणाधिकर्तव्ययोरेवभावादिति ॥

१२: ३२६.१२सचद्रव्यादिभ्यःपदार्थान्तरम्भाववल्लक्षणभेदात् । यथाभावस्यद्रव्यत्वादीनाम्स्वाधारेषुआत्मानुरूपप्रत्ययकर्तृत्वात्स्वाश्रयादिभ्यःपरस्परतश्चार्थान्तरभावःतथासमवायस्यापिपञ्चसुपदार्थेष्विहेतिप्रत्ययदर्शनात्तेभ्यःपदार्थान्तरत्वमिति । नचसम्योगवन्नानात्वम्भाववल्लिङ्गाविशेषात्विशेषलिङ्गाभावाच्चतस्माद्भाववत्सर्वत्रैकःसमवायैति ॥

१२: ३२७.९ननुयद्येकःसमवायोद्रव्यगुणकर्मणाम्द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैःसहसम्बन्धैकत्वात्पदार्थसङ्करप्रसङ्गैतिनआधाराधेयनियमात् । यद्यप्येकःसमवायःसर्वत्रस्वतन्त्रःतथाप्याधाराधेयनियमोऽस्ति। कथम्द्रव्येष्वेवद्रव्यत्वम्गुणेष्वेवगुणत्वम्कर्मस्वेवकर्मत्वमिति। एवमादिकस्मादन्वयव्यतिरेकदर्शनात् । इहेतिसमवायनिमित्तस्यज्ञानस्यान्वयदर्शनात्सर्वत्रैकःसमवायैतिगम्यते । द्रव्यत्वादिनिमित्तानाम्व्यतिरेकदर्शनात्प्रतिनियमोज्ञायते । यथाकुण्डदध्नोःसम्योगैकत्वेभवत्याश्रयाश्रयिभावनियमः। तथाद्रव्यत्वादीनामपिसमवायैकत्वेऽपिव्यङ्ग्यव्यंजकशक्तिभेदादाधाराधेयनियमैति ॥

१२: ३२८.१९सम्बन्धनित्यत्वेऽपिनसम्योगवदनित्यत्वम्भाववदकारणत्वात् । यथाप्रमाणतःकारणानुपलब्धेर्नित्योभावैत्युक्तम्तथासमवायोऽपीति। नह्यस्यकिञ्चित्कारणम्प्रमाणतौपलभ्यतेइति । कयापुनर्वृत्त्याद्रव्यादिषुसमवायोवर्तते । नसम्योगःसम्भवतितस्यगुणत्वेनद्रव्याश्रितत्वात् । नापिसमवायस्तस्यैकत्वात्नचान्यावृत्तिरस्तीति। न। तादात्म्यात्। यथाद्रव्यगुणकर्मणाम्सदात्मकस्यभावस्यनान्यःसत्तायोगोऽस्ति। एवमविभागिनोवृत्त्यात्मकस्यसमवायस्यनान्यावृत्तिरस्तितस्मात्स्वात्मवृत्तिः ।

१२: ३२६.२अतएवातीन्द्रियःसत्तादीनामिवप्रत्यक्षेषुवृत्त्यभावात्स्वात्मगतसंवेदनाभावाच्च । तस्मादिहबुद्ध्यनुमेयःसमवायैति ॥

१२.०: ३२६.५इतिप्रशस्तपादभाष्येसमवायपदार्थःसमाप्तः ॥

०.०: ३२६.७योगाचारविभूत्यायस्तोषयित्वामहेश्वरम् । चक्रेवैशेषिकम्शास्त्रम्तस्मैकणभुजेनमः ॥

०.०: ३२६.९इतिप्रशस्तपादविरचितम्द्रव्यादिषट्पदार्थभाष्यम्समाप्तम् ॥

>>>अनुक्रमणिका ( Back to Table of Content): पदार्थधर्मसंग्रह : प्रशस्तपाद ऋषी

Advertisements

You may also like...

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

error: Content is protected !!
%d bloggers like this: